Krishn Bhajan HindiStutiStuti HindiVaishnav Kirtan अधरं मधुरं वदनं मधुरं | Adharam Madhuram Lyrics May 6, 2024 0 FacebookWhatsAppPinterest https://amzn.to/46sNAa0 अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं, हृदयं मधुरं गमनं मधुरं, मधुराधिपतेरखिलं मधुरं , वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरं, चलितं मधुरं भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरं , वेणुर्मधुरो रेणुर्मधुर, पाणिर्मधुरः पादौ मधुरौ, नृत्यं मधुरं सख्यं मधुरं, मधुराधिपतेरखिलं मधुरं , गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरं, रूपं मधुरं तिलकं मधुरं, मधुराधिपतेरखिलं मधुरं , करणं मधुरं तरणं मधुरं, हरणं मधुरं स्मरणं मधुरं, वमितं मधुरं शमितं मधुरं, मधुराधिपतेरखिलं मधुरं , गुंजा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा, सलिलं मधुरं कमलं मधुरं, मधुराधिपतेरखिलं मधुरं , गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरं, दृष्टं मधुरं शिष्टं मधुरं, मधुराधिपतेरखिलं मधुरं , गोपा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्मधुरा, दलितं मधुरं फलितं मधुरं, मधुराधिपतेरखिलं मधुरं , अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं, हृदयं मधुरं गमनं मधुरं, मधुराधिपतेरखिलं मधुरं , Adharam Madhuram Lyrics नारायण स्वामी क्रिष्ण भजन मीराबाई भजन शिव भजन कबीर भजन प्राचीन भजन नरसिंह महेता राम भजन गणेश भजन माता के भजन आरती धून Share this: