अधरं मधुरं वदनं मधुरं | Adharam Madhuram Lyrics

0
113
अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
वचनं मधुरं चरितं मधुरं,
वसनं मधुरं वलितं मधुरं,
चलितं मधुरं भ्रमितं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
वेणुर्मधुरो रेणुर्मधुर,
पाणिर्मधुरः पादौ मधुरौ,
नृत्यं मधुरं सख्यं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
गीतं मधुरं पीतं मधुरं,
भुक्तं मधुरं सुप्तं मधुरं,
रूपं मधुरं तिलकं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
करणं मधुरं तरणं मधुरं,
हरणं मधुरं स्मरणं मधुरं,
वमितं मधुरं शमितं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
गुंजा मधुरा माला मधुरा,
यमुना मधुरा वीची मधुरा,
सलिलं मधुरं कमलं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
गोपी मधुरा लीला मधुरा,
युक्तं मधुरं मुक्तं मधुरं,
दृष्टं मधुरं शिष्टं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
गोपा मधुरा गावो मधुरा,
यष्टिर्मधुरा सृष्टिर्मधुरा,
दलितं मधुरं फलितं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं ,
Adharam Madhuram Lyrics

Table of Contents

LEAVE A REPLY

Please enter your comment!
Please enter your name here